Categories
Narayaneeyam

நாராயணீயம் அறுபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 67th Dashakam audio mp3

நாராயணீயம் அறுபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 67th Dashakam audio mp3

Have given the 67th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये सप्तषष्टितमं दशकम्

स्फुरत्परानन्दरसात्मकेन, त्वया, समासादितभोगलीला: ।
असीमं, आनन्दभरं प्रपन्ना:, महान्तमापु:, मदमम्बुजाक्ष्य: ॥ १ ॥

निलीयतेऽसौ मयि, मय्यमायं, रमापति:, विश्वमनोभिराम: ।
इति स्म सर्वा:, कलिताभिमाना:, निरीक्ष्य गोविन्द, तिरोहितोऽभू: ॥ २ ॥

राधाभिधां तावत्, अजातगर्वां, अतिप्रियां, गोपवधूं मुरारे ।
भवानुपादाय, गतो विदूरं, तया सह, स्वैरविहारकारी ॥ ३ ॥

तिरोहितेऽथ त्वयि, जाततापा:, समं समेता: कमलायताक्ष्य: ।
वने वने त्वां, परिमार्गयन्त्य:, विषादमापु:,भगवन्, अपारम् ॥ ४ ॥

हा चूत, हा चम्पक, कर्णिकार, हा मल्लिके, मालति, वालवल्य: ।
किं वीक्षितो, नो हृदयैकचोर:, इत्यादि ता:, त्वत्प्रवणा:, विलेपु: ॥ ५ ॥

निरीक्षितोऽयं, सखि पङ्कजाक्ष:, पुरो ममेति, आकुलमालपन्ती ।
त्वां, भावनाचक्षुषि, वीक्ष्य काचित्, तापं सखीनां, द्विगुणीचकार ॥ ६ ॥

त्वदात्मिकास्ता:, यमुनातटान्ते, तवानुचक्रु: किल चेष्टितानि ।
विचित्य भूयोऽपि, तथैव मानात्, त्वया वियुक्तां, ददृशुश्च राधाम् ॥ ७ ॥

तत: समं ता:, विपिने समन्तात्, तमोवतारावधि, मार्गयन्त्य: ।
पुनर्विमिश्रा:, यमुनातटान्ते, भृशं विलेपुश्च, जगुर्गुणांस्ते ॥ ८ ॥

तथा व्यथासङ्कुलमानसानां, व्रजाङ्गनानां, करुणैकसिन्धो ।
जगत्त्रयीमोहनमोहनात्मा, त्वं प्रादुरासी:, अयि मन्दहासी ॥ ९ ॥

सन्दिग्धसन्दर्शनं, आत्मकान्तं, त्वां वीक्ष्य तन्व्य:, सहसा तदानीम् ।
किं किं न चक्रु:, प्रमदातिभारात्, स त्वं गदात्, पालय मारुतेश ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये सप्तषष्टितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 67th dashakam.

Series Navigation<< நாராயணீயம் அறுபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 66th Dashakam audio mp3நாராயணீயம் அறுபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 68th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.