Categories
Narayaneeyam

நாராயணீயம் எழுபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 74th Dashakam audio mp3

நாராயணீயம் எழுபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 74th Dashakam audio mp3

Have given the 74th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चतुस्सप्ततितमं दशकम्

सम्प्राप्तो मधुरां, दिनार्धविगमे, तत्रान्तरस्मिन् वसन्,
आरामे, विहिताशन:, सखिजनै:, यात: पुरीमीक्षितुम् ।
प्रापो राजपथं, चिरश्रुतिधृतव्यालोक,कौतूहल-
स्त्रीपुंसोद्यदगण्य,पुण्यनिगलै:,आकृष्यमाणो नु, किम् ॥ १ ॥

त्वत्पादद्युतिवत् सरागसुभगा:, त्वन्मूर्तिवद्योषित:,
सम्प्राप्ता:, विलसत्पयोधररुच:, लोला:, भवत् दृष्टिवत् ।
हारिण्य:, त्वदुर:स्थलीवत्, अयि, ते मन्दस्मितप्रौढिवत्,
नैर्मल्योल्लसिता:, कचौघरुचिवत्, राजत्कलापाश्रिता: ॥ २ ॥

तासां, आकलयन्, अपाङ्गवलनैर्मोदं, प्रहर्षाद्भुत-
व्यालोलेषु, जनेषु तत्र, रजकं कञ्चित्, पटीं प्रार्थयन् ।
कस्ते दास्यति राजकीयवसनं, याहीति, तेनोदित:,
सद्यस्तस्य करेण, शीर्षमहृथा:, सोऽप्याप, पुण्यां गतिम् ॥ ३ ॥

भूयो वायकं, एकं, आयतमतिं, तोषेण वेषोचितं,
दाश्वांसं, स्वपदं निनेथ, सुकृतं को वेद, जीवात्मनाम् ।
मालाभि:, स्तबकै:, स्तवैरपि पुन:, मालाकृता मानित:,
भक्तिं तेन वृतां, दिदेशिथ परां, लक्ष्मीं च, लक्ष्मीपते ॥ ४ ॥

कुब्जां, अब्जविलोचनां, पथिपुन:, दृष्ट्वाऽङ्गरागे तया,
दत्ते, साधु किल, अङ्गरागमददा:, तस्या:, महान्तं हृदि ।
चित्तस्थामृजुतां, अथ प्रथयितुं गात्रेऽपि, तस्या: स्फुटं,
गृह्णन्, मञ्जु करेण, तामुदनय:, तावज्जगत्सुन्दरीम् ॥ ५ ॥

तावन्निश्चितवैभवा:,तव विभो, नात्यन्तपापा जना:,
यत्किञ्चित्, ददते स्म, शक्त्यनुगुणं, ताम्बूलमाल्यादिकम् ।
गृह्णान:, कुसुमादि, किञ्चन तदा, मार्गे निबद्धाञ्जलि:,
नातिष्ठं बत हा, यतोऽद्य विपुलां, आर्तिं, व्रजामि प्रभो ॥ ६ ॥

एष्यामीति, विमुक्तयाऽपि भगवन्, आलेपदात्र्या तया,
दूरात् कातरया, निरीक्षितगति:, त्वं प्राविशो गोपुरम् ।
आघोषानुमितत्वदागम,महाहर्षोल्लसद्देवकी-,
वक्षोजप्रगलत्पयोरसमिषात्, त्वत्कीर्ति:, अन्तर्गता ॥ ७ ॥

आविष्टो नगरीं महोत्सववतीं, कोदण्डशालां व्रजन्,
माधुर्येण नु, तेजसा नु पुरुषै:, दूरेण दत्तान्तर: ।
स्रग्भिर्भूषितं, अर्चितं वरधनु:, मामेति वादात् पुर:,
प्रागृह्णा:, समरोपय: किल, समाक्राक्षी:, अभाङ्क्षीरपि ॥ ८ ॥

श्व:, कंसक्षपणोत्सवस्य पुरत:, प्रारम्भतूर्योपम:,
चापध्वंसमहाध्वनि:, तव विभो, देवान्, अरोमाञ्चयत् ।
कंसस्यापि च वेपथु:, तदुदित:, कोदण्ड,खण्डद्वयी-,
चण्डाभ्याहत,रक्षिपूरुषरवै:, उत्कूलितोऽभूत् त्वया ॥ ९ ॥

शिष्टैर्दुष्टजनैश्च, दृष्टमहिमा प्रीत्या च, भीत्या तत:,
सम्पश्यन् पुरसम्पदं, प्रविचरन्, सायं गतो, वाटिकाम् ।
श्रीदाम्ना सह, राधिकाविरहजं, खेदं वदन् प्रस्वपन्,
आनन्दन्, अवतारकार्यघटनात्, वातेश, संरक्ष माम् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये चतुस्सप्ततितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 74th dashakam.

Series Navigation<< நாராயணீயம் எழுபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 73rd Dashakam audio mp3நாராயணீயம் எழுபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 75th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.