Categories
Narayaneeyam

நாராயணீயம் எழுபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 75th Dashakam audio mp3

நாராயணீயம் எழுபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 75th Dashakam audio mp3

Have given the 75th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चसप्ततितमं दशकम्

प्रात: सन्त्रस्त-भोजक्षितिपतिवचसा, प्रस्तुते मल्लतूर्ये,
सङ्घे राज्ञां च मञ्चान्, अभिययुषि गते, नन्दगोपेऽपि, हर्म्यम् ।
कंसे सौधाधिरूढे, त्वमपि सहबल:, सानुगश्चारुवेष:,
रङ्गद्वारं, गतोऽभू:, कुपितकुवलयापीड,नागावलीढम् ॥ १ ॥

पापिष्ठ, अपेहि मार्गात्, द्रुतमिति वचसा, निष्ठुरक्रुद्धबुद्धे:,
अम्बष्ठस्य प्रणोदात्, अधिकजवजुषा, हस्तिना, गृह्यमाण: ।
केलीमुक्तोऽथ, गोपीकुचकलश-चिरस्पर्धिनं, कुम्भमस्य,
व्याहत्य अलीयथास्त्वं, चरणभुवि पुन:, निर्गतो, वल्गुहासी ॥ २ ॥

हस्तप्राप्योपि अगम्य:, झटिति मुनिजनस्येव, धावन् गजेन्द्रं,
क्रीडन्, आपत्य भूमौ, पुनरभिपतत:, तस्य दन्तं, सजीवम् ।
मूलात्, उन्मूल्य, तन्मूलग-महितमहा-मौक्तिकानि, आत्ममित्रे
प्रादा:, त्वं हारमेभि:, ललितविरचितं, राधिकायै, दिशेति ॥ ३ ॥

गृह्णानं, दन्तमंसे, युतमथ हलिना, रङ्गं, अङ्गाविशन्तं,
त्वां, मङ्गल्याङ्गभङ्गी,रभसहृत-मनोलोचना, वीक्ष्य लोका: ।
हंहो, धन्यो नु नन्द:, नहि नहि, पशुपालाङ्गना:, नो, यशोदा,
नो नो, धन्येक्षणा: स्म:, त्रिजगति वयमेवेति, सर्वे, शशंसु: ॥ ४ ॥

पूर्णं ब्रह्मैव साक्षात्, निरवधि परमानन्द-सान्द्रप्रकाशं,
गोपेशु, त्वं व्यलासी:, न खलु बहुजनै:, तावत्, आवेदितोऽभू: ।
दृष्ट्वाऽथ त्वां तदा, इदं प्रथमं, उपगते, पुण्यकाले जनौघा:,
पूर्णानन्दा:, विपापा:, सरसमभिजगु:, त्वत्कृतानि, स्मृतानि ॥ ५ ॥

चाणूरो मल्लवीरस्तदनु, नृपगिरा मुष्टिको मुष्टिशाली,
त्वां रामं चाभिपेदे, झटझटिति मिथो, मुष्टिपातातिरूक्षम् ।
उत्पाता-पातनाकर्षण,विविधरणानि,आसतां तत्र चित्रं,
मृत्यो: प्रागेव, मल्लप्रभु:, अगमदयं, भूरिशो, बन्धमोक्षान् ॥ ६ ॥

हा धिक् कष्टं, कुमारौ सुललितवपुषौ, मल्लवीरौ कठोरौ,
न द्रक्ष्याम:, व्रजामस्त्वरितं, इति जने, भाषमाणे, तदानीम् ।
चाणूरं तं, करोद्भ्रामण,विगलदसुं, पोथयामासिथोर्व्यां,
पिष्टोऽभूत्, मुष्टिकोऽपि, द्रुतमथ हलिना, नष्टशिष्टै:, दधावे ॥ ७ ॥

कंसस्संवार्य तूर्यं, खलमतिरविदन्, कार्यं, आर्यान् पितॄम्स्तान्,
आहन्तुं, व्याप्तमूर्ते:, तव च समशिषत्, दूरमुत्सारणाय ।
रुष्टो दुष्टोक्तिभिस्त्वं, गरुड इव गिरिं मञ्चं, अञ्चन्, उदञ्चत्-
खड्गव्यावल्ग-दुस्संग्रहमपि च, हठात् प्राग्रही:, औग्रसेनिम् ॥ ८ ॥

सद्यो निष्पिष्टसन्धिं, भुवि नरपतिमापात्य तस्योपरिष्टात्,
त्वय्यापात्ये तदैव, त्वदुपरि पतिता नाकिनां, पुष्पवृष्टि: ।
किं किं ब्रूमस्तदानीं, सततमपि भिया, त्वद्गतात्मा, स भेजे
सायुज्यं, त्वद्वधोत्था परम, परमियं वासना, कालनेमे: ॥ ९ ॥

तद्भ्रातृन्, अष्ट पिष्ट्वा, द्रुतमथ, पितरौ सन्नमन्, उग्रसेनं
कृत्वा राजानं, उच्चैर्यदुकुलमखिलं मोदयन्, कामदानै: ।
भक्तानां, उत्तमं च, उद्धवं, अमरगुरोराप्तनीतिं सखायं,
लब्ध्वा, तुष्टो नगर्यां, पवनपुरपते, रुन्धि मे सर्वरोगान् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये पञ्चसप्ततितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 75th dashakam.

Series Navigation<< நாராயணீயம் எழுபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 74th Dashakam audio mp3நாராயணீயம் எழுபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 76th Dashakam audio mp3 >>

3 replies on “நாராயணீயம் எழுபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 75th Dashakam audio mp3”

I am following all dashakams . Extremely nice with all clarity & splitting of words so as to understand the meaning . It is not at all surprising as Ganapathi is mastered in Ramayanam, Mooka pancha shathi as well other shlokas under the guidance of Swamigal !!

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.