Categories
Narayaneeyam

நாராயணீயம் எழுபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 76th Dashakam audio mp3

நாராயணீயம் எழுபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 76th Dashakam audio mp3

Have given the 76th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये षड्सप्ततितमं दशकम्

गत्वा सान्दीपनिमथ, चतुष्षष्टिमात्रैरहोभि:,
सर्वज्ञस्त्वं, सह मुसलिना, सर्वविद्या:, गृहीत्वा ।
पुत्रं नष्टं, यमनिलयनात्, आहृतं दक्षिणार्थं,
दत्वा तस्मै, निजपुरमगा:, नादयन् पाञ्चजन्यम् ॥ १ ॥

स्मृत्वा स्मृत्वा, पशुपसुदृश:, प्रेमभारप्रणुन्ना:,
कारुण्येन, त्वमपि विवश:, प्राहिणो:, उद्धवं तम् ।
किञ्च, अमुष्मै परमसुहृदे, भक्तवर्याय, तासां
भक्त्युद्रेकं, सकलभुवने दुर्लभं, दर्शयिष्यन् ॥ २ ॥

त्वन्माहात्म्यप्रथिमपिशुनं, गोकुलं प्राप्य सायं,
त्वद्वार्ताभि:, बहु स रमयामास, नन्दं, यशोदाम् ।
प्रातर्दृष्ट्वा मणिमयरथं, शङ्किता: पङ्कजाक्ष्य:,
श्रुत्वा प्राप्तं, भवदनुचरं, त्यक्तकार्या:, समीयु: ॥ ३ ॥

दृष्ट्वा चैनं, त्वदुपमलसद्वेषभूषाभिरामं,
स्मृत्वा स्मृत्वा, तव विलसितानि, उच्चकै:, तानि तानि ।
रुद्धालापा: कथमपि पुन:, गद्गदां वाचमूचु:,
सौजन्यादीन्, निजपरभिदामपि, अलं विस्मरन्त्य: ॥ ४ ॥

श्रीमन् किं त्वं पितृजनकृते, प्रेषितो निर्दयेन,
क्वासौ कान्तो, नगरसुदृशां, हा हरे नाथ, पाया: ।
आश्लेषाणां, अमृतवपुषो हन्त, ते चुम्बनानां,
उन्मादानां, कुहकवचसां, विस्मरेत् कान्त, का वा ॥ ५ ॥

रासक्रीडालुलितललितं, विश्लथत्केशपाशं,
मन्दोद्भिन्न श्रमजलकणं, लोभनीयं, त्वदङ्गम् ।
कारुण्याब्धे, सकृदपि, समालिङ्गितुं, दर्शयेति
प्रेमोन्मादात्, भुवनमदन, त्वत्प्रिया:, त्वां विलेपु: ॥ ६ ॥

एवंप्रायै:, विवशवचनै:, आकुला गोपिकास्ता:,
त्वत्सन्देशै:, प्रकृतिमनयत्, सोऽथ, विज्ञानगर्भै: ।
भूयस्ताभि:, मुदितमतिभि:, त्वन्मयीभि:, वधूभि:,
तत्तद्वार्तासरसमनयत्, कानिचित्, वासराणि ॥ ७ ॥

त्वत्प्रोद्गानैस्सहितमनिशं, सर्वतो गेहकृत्यं,
त्वद्वार्तैव प्रसरति मिथ:, सैव च, उत्स्वापलापा: ।
चेष्टा: प्रायस्त्वदनुकृतय:, त्वन्मयं सर्वमेवं,
दृष्ट्वा तत्र व्यमुहदधिकं, विस्मयात्, उद्धवोऽयम् ॥ ८ ॥

राधाया मे प्रियतमं, इदं, मत्प्रिया, एवं ब्रवीति,
त्वं किं मौनं कलयसि, सखे, मानिनी, मत्प्रियेव ।
इत्याद्येव प्रवदति सखि, त्वत्प्रियो निर्जने मां,
इत्थंवादै:, अरमयदयं, त्वत्प्रियां, उत्पलाक्षीम् ॥ ९ ॥

एष्यामि द्राक्, अनुपगमनं, केवलं कार्यभारात्,
विश्लेषेऽपि, स्मरणदृढतासम्भवात्, मास्तु खेद: ।
ब्रह्मानन्दे, मिलति नचिरात्, सङ्गमो वा वियोग:,
तुल्यो व: स्यात्, इति तव गिरा, सोऽकरोत्, निर्व्यथास्ता: ॥ १० ॥

एवं भक्ति:, सकलभुवने, नेक्षिता न श्रुता वा,
किं शास्त्रौघै:, किमिह तपसा, गोपिकाभ्यो नमोऽस्तु ।
इति, आनन्दाकुलं, उपगतं गोकुलात्, उद्धवं तं,
दृष्ट्वा हृष्टो, गुरुपुरपते, पाहि मां, आमयौघात् ॥ ११ ॥

ॐ तत्सदिति श्रीमन्नारायणीये षड्सप्ततितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 76th dashakam.

Series Navigation<< நாராயணீயம் எழுபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 75th Dashakam audio mp3நாராயணீயம் எழுபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 77th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.