Categories
Narayaneeyam

நாராயணீயம் எழுபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 77th Dashakam audio mp3

நாராயணீயம் எழுபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 77th Dashakam audio mp3
Have given the 77th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये सप्तसप्ततितमं दशकम्

सैरन्ध्र्या:, तदनु चिरं, स्मरातुराया:, यातोऽभू: सुललितं, उद्धवेन सार्धम् ।
आवासं, त्वदुपगमोत्सवं सदैव, ध्यायन्त्या:, प्रतिदिन,वाससज्जिकाया: ॥ १ ॥

उपगते त्वयि, पूर्णमनोरथां, प्रमदसम्भ्रम,कम्प्रपयोधराम् ।
विविधं, आननं, आदधतीं मुदा, रहसि तां, रमयाञ्चकृषे सुखम् ॥ २ ॥

पृष्टा वरं, पुनरसौ, अवृणोद्वराकी, भूयस्त्वया, सुरतमेव निशान्तरेषु ।
सायुज्यमस्त्विति वदेत्, बुध एव कामं, सामीप्यं, अस्तु, अनिशं, इत्यपि नाब्रवीत्, किम् ॥ ३ ॥

ततो भवान्, देव, निशासु कासुचित्, मृगीदृशं तां निभृतं, विनोदयन् ।
अदात्, उपश्लोक इति श्रुतं सुतं, स नारदात्, सात्वततन्त्रविद्बभौ ॥ ४ ॥

अक्रूरमन्दिरमितोऽथ, बलोद्धवाभ्यां, अभ्यर्चितो बहु नुतो मुदितेन, तेन ।
एनं विसृज्य, विपिनागतपाण्डवेयवृत्तं, विवेदिथ, तथा, धृतराष्ट्र्चेष्टाम् ॥ ५ ॥

विघाताज्जामातु:, परमसुहृदो, भोजनृपते:, जरासन्धे, रुन्धति, अनवधिरुषान्धेऽथ, मधुराम् ।
रथाद्यै:, द्योर्लब्धै:, कतिपयबलस्त्वं बलयुत:, त्रयोविंशत्यक्षौहिणि, तदुपनीतं, समहृथा: ॥ ६ ॥

बद्धं बलात्, अथ बलेन, बलोत्तरं त्वं, भूयो बलोद्यमरसेन, मुमोचिथैनम् ।
निश्शेष,दिग्जयसमाहृत,विश्वसैन्यात्, कोऽन्यस्ततो हि, बलपौरुषवान्, तदानीम् ॥ ७ ॥

भग्न: स लग्नहृदयोऽपि, नृपै: प्रणुन्नो, युद्धं त्वया व्यधित, षोडशकृत्व एवम् ।
अक्षौहिणी:, शिव शिवास्य, जघन्थ विष्णो, सम्भूय सैकनवति, त्रिशतं तदानीम् ॥ ८ ॥

अष्टादशेऽस्य समरे, समुपेयुषि त्वं, दृष्ट्वा, पुरोऽथ यवनं यवनत्रिकोट्या ।
त्वष्ट्रा विधाप्य, पुरमाशु पयोधिमध्ये, तत्राऽथ, योगबलत:, स्वजनान् अनैषी: ॥ ९ ॥

पद्भ्यां त्वं पद्ममाली, चकित इव पुरान्निर्गतो, धावमान:,
म्लेच्छेशेन, अनुयातो, वधसुकृतविहीनेन, शैले, न्यलैषी: ।
सुप्तेन,अन्घ्र्याहतेन, द्रुतमथ, मुचुकुन्देन, भस्मीकृतेऽस्मिन्,
भूपायास्मै गुहान्ते, सुललितवपुषा, तस्थिषे, भक्तिभाजे ॥ १० ॥

ऐक्ष्वाकोऽहं, विरक्तोऽस्म्यखिलनृपसुखे, त्वत्प्रसादैककाङ्क्षी,
हा देवेति स्तुवन्तं, वरविततिषु तं, निस्पृहं, वीक्ष्य हृष्यन् ।
मुक्तेस्तुल्यां च भक्तिं, धुतसकलमलं, मोक्षमप्याशु दत्वा,
कार्यं हिंसा,विशुद्ध्यै, तप इति च तदा, प्रात्थ, लोकप्रतीत्यै ॥ ११ ॥

तदनु मधुरां गत्वा, हत्वा चमूं यवनाहृतां,
मगधपतिना मार्गे, सैन्यै: पुरेव, निवारित: ।
चरमविजयं दर्पायास्मै प्रदाय, पलायित:,
जलधिनगरीं यातो, वातालयेश्वर, पाहि माम् ॥१२॥

ॐ तत्सदिति श्रीमन्नारायणीये सप्तसप्ततितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 77th dashakam.

Series Navigation<< நாராயணீயம் எழுபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 76th Dashakam audio mp3நாராயணீயம் எழுபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 78th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.