Categories
Narayaneeyam

நாராயணீயம் எழுபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 78th Dashakam audio mp3

நாராயணீயம் எழுபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 78th Dashakam audio mp3
Have given the 78th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अष्टसप्ततितमं दशकम्

त्रिदशवर्धकिवर्धितकौशलं, त्रिदशदत्तसमस्तविभूतिमत् ।
जलधिमध्यगतं, त्वं अभूषय:, नवपुरं वपुरञ्चितरोचिषा ॥ १ ॥

ददुषि रैवतभूभृति रेवतीं, हलभृते तनयां, विधिशासनात् ।
महितमुत्सवघोषं, अपूपुष:, समुदितैर्मुदितै: सह यादवै: ॥ २ ॥

अथ विदर्भसुतां खलु रुक्मिणीं, प्रणयिनीं त्वयि देव सहोदर: ।
स्वयमदित्सत, चेदिमहीभुजे, स्वतमसा, तमसाधुं उपाश्रयन् ॥ ३ ॥

चिरधृतप्रणया त्वयि बालिका, सपदि काङ्क्षितभङ्गसमाकुला ।
तव निवेदयितुं, द्विजमादिशत्, स्वकदनं, कदनङ्गविनिर्मितम् ॥ ४ ॥

द्विजसुतोऽपि च, तूर्णमुपाययौ, तव पुरं हि, दुराशदुरासदम् ।
मुदमवाप च सादरपूजित:, स भवता, भवतापहृता स्वयम् ॥ ५ ॥

स च भवन्तं, अवोचत कुण्डिने, नृपसुता खलु, राजति रुक्मिणी ।
त्वयि समुत्सुकया, निजधीरतारहितया हि तया, प्रहितोऽस्म्यहम् ॥ ६ ॥

तव हृताऽस्मि पुरैव, गुणैरहं, हरति मां किल, चेदिनृपोऽधुना ।
अयि कृपालय पालय मां, इति प्रजगदे, जगदेकपते तया ॥ ७ ॥

अशरणां यदि मां त्वमुपेक्षसे, सपदि, जीवितमेव जहाम्यहम् ।
इति गिरा सुतनो:, अतनोत् भृशं, सुहृदयं, हृदयं तव कातरम् ॥ ८ ॥

अकथय:, त्वं अथैनमये सखे, तदधिका, मम मन्मथवेदना ।
नृपसमक्षमुपेत्य हराम्यहं, तदयि तां, दयितां असितेक्षणाम् ॥ ९ ॥

प्रमुदितेन च तेन समं तदा, रथगतो लघु कुण्डिनमेयिवान् ।
गुरुमरुत्पुरनायक, मे भवान्, वितनुतां, तनुतां निखिलापदाम् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये अष्टसप्ततितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 78th dashakam.

Series Navigation<< நாராயணீயம் எழுபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 77th Dashakam audio mp3நாராயணீயம் எழுபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 79th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.