நாராயணீயம் எழுபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 79th Dashakam audio mp3
Have given the 79th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.
श्रीमन्नारायणीये एकोनाशीतितमं दशकम्
बलसमेतबलानुगतो भवान्, पुरमगाहत भीष्मकमानित: ।
द्विजसुतं त्वदुपागमवादिनं, धृतरसा, तरसा प्रणनाम सा ॥ १ ॥
भुवनकान्तमवेक्ष्य भवद्वपु:, नृपसुतस्य निशम्य च चेष्टितम् ।
विपुलखेदजुषां पुरवासिनां, सरुदितै:, उदितैरगमन्निशा ॥ २ ॥
तदनु वन्दितुं, इन्दुमुखी, शिवां, विहितमङ्गलभूषणभासुरा ।
निरगमत् भवदर्पितजीविता, स्वपुरत:, पुरत: सुभटावृता ॥ ३ ॥
कुलवधूभिरुपेत्य कुमारिका, गिरिसुतां, परिपूज्य च सादरम् ।
मुहुरयाचत, तत्पदपङ्कजे निपतिता, पतितां तव केवलम् ॥ ४ ॥
समवलोककुतूहलसङ्कुले, नृपकुले निभृतं त्वयि च स्थिते ।
नृपसुता निरगाद्गिरिजालयात्, सुरुचिरं, रुचिरञ्जितदिङ्मुखा ॥ ५ ॥
भुवनमोहनरूपरुचा तदा, विवशिताखिलराजकदम्बया ।
त्वमपि देव, कटाक्षविमोक्षणै:, प्रमदया, मदयाञ्चकृषे मनाक् ॥ ६ ॥
क्व नु गमिष्यसि, चन्द्रमुखीति तां, सरसमेत्य करेण हरन् क्षणात् ।
समधिरोप्य रथं, त्वमपाहृथा:, भुवि ततो विततो निनदो द्विषाम् ॥ ७ ॥
क्व नु गत: पशुपाल इति क्रुधा, कृतरणा:, यदुभिश्च जिता नृपा: ।
न तु भवान्, उदचाल्यत तैरहो, पिशुनकै: शुनकैरिव केसरी ॥ ८ ॥
तदनु रुक्मिणमागतमाहवे, वधमुपेक्ष्य, निबध्य विरूपयन् ।
हृतमदं परिमुच्य बलोक्तिभि:, पुरमया रमया सह कान्तया ॥ ९ ॥
नवसमागमलज्जितमानसां, प्रणयकौतुकजृम्भितमन्मथाम् ।
अरमय: खलु नाथ, यथासुखं, रहसि तां, हसितांशुलसन्मुखीम् ॥ १० ॥
विविधनर्मभिरेवमहर्निशं, प्रमदमाकलयन् पुनरेकदा ।
ऋजुमते: किल वक्रगिरा भवान्, वरतनो:, अतनोदतिलोलताम् ॥ ११ ॥
तदधिकै:, अथ लालनकौशलै:, प्रणयिनीमधिकं, सुखयन्निमाम् ।
अयि मुकुन्द, भवच्चरितानि, न: प्रगदतां, गदतान्तिमपाकुरु ॥ १२ ॥
ॐ तत्सदिति श्रीमन्नारायणीये एकोनाशीतितमं दशकं समाप्तम् |
श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |
If you prefer regular lyrics it can be found here – Narayaneeyam 79th dashakam.