Categories
Narayaneeyam

நாராயணீயம் எண்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 80th Dashakam audio mp3

நாராயணீயம் எண்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 80th Dashakam audio mp3
Have given the 80th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अशीतितमं दशकम्

सत्राजितस्त्वमथ, लुब्धवदर्कलब्धं,
दिव्यं स्यमन्तकमणिं, भगवन्, अयाची: ।
तत्कारणं, बहुविधं, मम भाति नूनं,
तस्यात्मजां त्वयि रतां, छलतो विवोढुम् ॥ १ ॥

अदत्तं, तं तुभ्यं मणिवरं, अनेन अल्पमनसा,
प्रसेनस्तद्भ्राता, गलभुवि वहन्, प्राप, मृगयाम् ।
अहन्नेनं सिंह:, मणिमहसि, मांसभ्रमवशात्,
कपीन्द्र:, तं हत्वा, मणिमपि च, बालाय, ददिवान् ॥ २ ॥

शशंसु:, सत्राजिद्गिरं, अनु जनास्त्वां मणिहरं,
जनानां, पीयूषं भवति, गुणिनां, दोषकणिका ।
तत: सर्वज्ञोऽपि, स्वजनसहितो, मार्गणपर:,
प्रसेनं तं दृष्ट्वा, हरिमपि, गतोऽभू:, कपिगुहाम् ॥ ३ ॥

भवन्तं, अवितर्कयन्, अतिवया:, स्वयं जाम्बवान्,
मुकुन्दशरणं हि मां, क इह रोद्धुं, इत्यालपन् ।
विभो, रघुपते, हरे, जय जय, इत्यलं मुष्टिभि:
चरन्, तव समर्चनं व्यधित, भक्तचूडामणि: ॥ ४ ॥

बुध्वाऽथ तेन दत्तां, नवरमणीं, वरमणिं च, परिगृह्णन् ।
अनुगृह्णन्, अमुमागा:, सपदि च सत्राजिते, मणिं प्रादा: ॥ ५ ॥

तदनु स खलु व्रीडालोलो, विलोलविलोचनां,
दुहितरमहो धीमान्, भामां, गिरैव, परार्पिताम् ।
अदित मणिना तुभ्यं, लभ्यं समेत्य भवानपि,
प्रमुदितमना:, तस्यैवादात्, मणिं, गहनाशय: ॥ ६ ॥

व्रीडाकुलां, रमयति त्वयि, सत्यभामां, कौन्तेयदाहकथयाथ, कुरून् प्रयाते ।
ही, गान्दिनेयकृतवर्मगिरा निपात्य, सत्राजितं, शतधनु:, मणिमाजहार ॥ ७ ॥

शोकात् कुरून्, उपगतां, अवलोक्य कान्तां,
हत्वा द्रुतं शतधनुं, समहर्षयस्ताम् ।
रत्ने, सशङ्क इव, मैथिलगेहमेत्य,
रामो गदां, समशिशिक्षत, धार्तराष्ट्रम् ॥ ८ ॥

अक्रूर एष भगवन्, भवदिच्छयैव,
सत्राजित: कुचरितस्य, युयोज हिंसाम् ।
अक्रूरतो मणिं, अनाहृतवान् पुनस्त्वं,
तस्यैव भूतिं, उपधातुं, इति ब्रुवन्ति ॥ ९ ॥

भक्तस्त्वयि स्थिरतर:, स हि गान्दिनेय:,
तस्यैव कापथमति:, कथमीश जाता ।
विज्ञानवान्, प्रशमवान्, अहं, इत्युदीर्णं,
गर्वं ध्रुवं, शमयितुं, भवता कृतैव ॥ १० ॥

यातं भयेन, कृतवर्मयुतं पुनस्तं, आहूय तद्विनिहितं च, मणिं प्रकाश्य ।
तत्रैव सुव्रतधरे, विनिधाय तुष्यन्, भामाकुचान्तरशय:, पवनेश, पाया: ॥ ११ ॥

ॐ तत्सदिति श्रीमन्नारायणीये अशीतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

ஸ்யமந்தகமணி உபாக்யானம்

If you prefer regular lyrics it can be found here – Narayaneeyam 80th dashakam.

Series Navigation<< நாராயணீயம் எழுபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 79th Dashakam audio mp3நாராயணீயம் எண்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 81st Dashakam audio mp3 >>

2 replies on “நாராயணீயம் எண்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 80th Dashakam audio mp3”

பொருள் விளங்கு மாபோல் தெளிவான பதிவு ! புதிதாய் பாராயணம் செய்பவர்களுக்கு ஒர் வழிகாட்டி ! தொடர்க தங்கல் பணி!

Namaskaram Mama நாராயணீயம் பொருளுரை சொல்லுங்கள் மாமா மஹாபெரியவா சரணம்

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.