Categories
Narayaneeyam

நாராயணீயம் எண்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 81st Dashakam audio mp3

நாராயணீயம் எண்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 81st Dashakam audio mp3
Have given the 81st dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकाशीतितमं दशकम्

स्निग्धां मुग्धां, सततमपि तां, लालयन् सत्यभामां,
यातो भूय: सह खलु तया, याज्ञसेनीविवाहम् ।
पार्थप्रीत्यै पुनरपि मनाक्, आस्थितो हस्तिपुर्यां,
शक्रप्रस्थं, पुरमपि विभो, संविधाय, आगतोऽभू: ॥ १ ॥

भद्रां भद्रां, भवदवरजां, कौरवेणार्थ्यमानां,
त्वद्वाचा, तां, अहृत कुहनामस्करी, शक्रसूनु: ।
तत्र क्रुद्धं बलं, अनुनयन्, प्रत्यगास्तेन सार्धं,
शक्रप्रस्थं, प्रियसखमुदे, सत्यभामा,सहाय: ॥ २ ॥

तत्र क्रीडन्, अपि च यमुनाकूलदृष्टां, गृहीत्वा,
तां कालिन्दीं, नगरमगम:, खाण्डवप्रीणिताग्नि: ।
भ्रातृत्रस्तां प्रणयविवशां, देव पैतृष्वसेयीं,
राज्ञां मध्ये, सपदि जहृषे, मित्रविन्दां, अवन्तीम् ॥ ३ ॥

सत्यां, गत्वा पुन:, उदवहो नग्नजिन्नन्दनां तां,
बध्वा सप्तापि च, वृषवरान्, सप्तमूर्ति:, निमेषात् ।
भद्रां नाम प्रददु:, अथ ते देव, सन्तर्दनाद्या:,
तत्सोदर्यां वरद, भवत: साऽपि, पैतृष्वसेयी ॥ ४ ॥

पार्थाद्यैरपि, अकृतलवनं, तोयमात्राभिलक्ष्यं,
लक्षं छित्वा, शफरं, अवृथा:, लक्ष्मणां, मद्रकन्याम् ।
अष्टावेवं, तव समभवन्, वल्लभा:, तत्र मध्ये,
शुश्रोथ त्वं, सुरपतिगिरा, भौमदुश्चेष्टितानि ॥ ५ ॥

स्मृतायातं पक्षिप्रवरं, अधिरूढस्त्वमगम:,
वहन्नङ्के, भामां, उपवनमिवाराति,भवनम् ।
विभिन्दन् दुर्गाणि, त्रुटितपृतना,शोणितरसै:,
पुरं तावत्, प्राग्ज्योतिषं, अकुरुथा:, शोणितपुरम् ॥ ६ ॥

मुरस्त्वां, पञ्चास्यो, जलधिवनमध्यात्, उदपतत्,
स चक्रे, चक्रेण प्रदलितशिरा:, मङ्क्षु भवता ।
चतुर्दन्तै:, दन्तावलपतिभि:, इन्धानसमरं,
रथाङ्गेन छित्वा, नरकं, अकरोस्तीर्ण,नरकम् ॥ ७ ॥

स्तुतो भूम्या, राज्यं सपदि भगदत्तेऽस्य तनये,
गजञ्चैकं दत्वा, प्रजिघयिथ, नागान्, निजपुरम् ।
खलेन, आबद्धानां, स्वगतमनसां, षोडश पुन:,
सहस्राणि स्त्रीणां, अपि च धनराशिं च विपुलम् ॥ ८ ॥

भौमापाहृतकुण्डलं, तत्, अदितेर्दातुं, प्रयातो दिवं,
शक्राद्यै:, महित: समं दयितया, द्युस्त्रीषु, दत्तह्रिया ।
हृत्वा कल्पतरुं, रुषाभिपतितं, जित्वेन्द्रमभ्यागम:,
तत्तु, श्रीमददोष, ईदृश इति, व्याख्यातुं एव, अकृथा: ॥ ९ ॥

कल्पद्रुं, सत्यभामाभवनभुवि, सृजन्, द्व्यष्टसाहस्रयोषा:,
स्वीकृत्य, प्रत्यगारं, विहितबहुवपु:, लालयन्, केलिभेदै: ।
आश्चर्यात्, नारदालोकित,विविधगति:, तत्र तत्रापि गेहे,
भूय: सर्वासु कुर्वन्, दश दश तनयान्, पाहि वातालयेश ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये एकाशीतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 81st dashakam.

Series Navigation<< நாராயணீயம் எண்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 80th Dashakam audio mp3நாராயணீயம் எண்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 82nd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.