Categories
Narayaneeyam

நாராயணீயம் எண்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 82nd Dashakam audio mp3

நாராயணீயம் எண்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 82nd Dashakam audio mp3
Have given the 82nd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये द्व्यशीतितमं दशकम्

प्रद्युम्नो रौक्मिणेय:, स खलु तव कला शम्बरेणाहृत:, तं
हत्वा, रत्या सहाप्तो निजपुरं, अहरद्रुक्मिकन्यां च, धन्याम् ।
तत्पुत्रोऽथ अनिरुद्धो, गुणनिधिरवहत्, रोचनां रुक्मिपौत्रीं,
तत्रोद्वाहे गतस्त्वं, न्यवधि मुसलिना, रुक्म्यपि, द्यूतवैरात् ॥ १ ॥

बाणस्य सा, बलिसुतस्य सहस्रबाहो:, माहेश्वरस्य महिता, दुहिता किलोषा ।
त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं, स्वप्नेऽनुभूय भगवन्, विरहातुराऽभूत् ॥ २ ॥

योगिन्यतीव कुशला खलु, चित्रलेखा, तस्या: सखी विलिखती, तरुणानशेषान् ।
तत्र अनिरुद्धं, उषया विदितं निशायां, आनेष्ट योगबलत:, भवतो निकेतात् ॥ ३ ॥

कन्यापुरे, दयितया, सुखमारमन्तं, चैनं कथञ्चन, बबन्धुषि, शर्वबन्धौ ।
श्रीनारदोक्त,तदुदन्तदुरन्तरोषै:, त्वं तस्य शोणितपुरं, यदुभिर्न्यरुन्धा: ॥ ४ ॥

पुरीपाल:, शैलप्रियदुहितृनाथोऽस्य, भगवान्,
समं भूतव्रातै:, यदुबलमशङ्कं, निरुरुधे ।
महाप्राणो बाणो, झटिति, युयुधानेन, युयुधे,
गुह: प्रद्युम्नेन, त्वमपि, पुरहन्त्रा, जघटिषे ॥ ५ ॥

निरुद्धाशेषास्त्रे, मुमुहुषि, तवास्त्रेण गिरिशे,
द्रुता भूता, भीता:, प्रमथकुलवीरा:, प्रमथिता: ।
परास्कन्द्त् स्कन्द:, कुसुमशरबाणैश्च सचिव:,
स कुम्भाण्डो, भाण्डं नवमिव, बलेनाशु बिभिदे ॥ ६ ॥

चापानां पञ्चशत्या, प्रसभं, उपगते, छिन्नचापेऽथ, बाणे
व्यर्थे याते, समेतो ज्वरपति:, अशनै:, अज्वरि, त्वज्ज्वरेण ।
ज्ञानी स्तुत्वाऽथ दत्वा, तव चरितजुषां विज्वरं, स ज्वरोऽगात्,
प्राय:, अन्तर्ज्ञानवन्तोऽपि च, बहुतमसा, रौद्रचेष्टा हि, रौद्रा: ॥ ७ ॥

बाणं, नानायुधोग्रं, पुनरभिपतितं, दर्पदोषात् वितन्वन्,
निर्लूनाशेषदोषं, सपदि बुबुधुषा, शङ्करेन, उपगीत: ।
तद्वाचा, शिष्टबाहुद्वितयं, उभयतो निर्भयं, तत्प्रियं तं,
मुक्त्वा, तद्दत्तमानो, निजपुरमगम:, सानिरुद्ध:, सहोष: ॥ ८ ॥

मुहुस्तावच्छक्रं, वरुणमजयो, नन्दहरणे,
यमं, बालानीतौ, दवदहनपाने, अनिलसखम् ।
विधिं, वत्सस्तेये, गिरिशमिह, बाणस्य समरे,
विभो, विश्वोत्कर्षी, तत्, अयमवतारो, जयति ते ॥ ९ ॥

द्विजरुषा, कृकलासवपुर्धरं, नृगनृपं, त्रिदिवालयमापयन् ।
निजजने, द्विजभक्तिं, अनुत्तमां, उपदिशन्, पवनेश्वर, पाहि माम् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये द्व्यशीतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 82nd dashakam.

Series Navigation<< நாராயணீயம் எண்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 81st Dashakam audio mp3நாராயணீயம் எண்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 83rd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.