Categories
Narayaneeyam

நாராயணீயம் எண்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 83rd Dashakam audio mp3

நாராயணீயம் எண்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 83rd Dashakam audio mp3
Have given the 83rd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये त्र्यशीतितमं दशकम्

रामेऽथ, गोकुलगते, प्रमदाप्रसक्ते,
हूतानुपेतयमुनादमने, मदान्धे ।
स्वैरं समारमति, सेवकवादमूढ:,
दूतं न्ययुङ्क्त तव, पौण्ड्रकवासुदेव: ॥ १ ॥

नारायणोऽहं, अवतीर्ण इहास्मि भूमौ,
धत्से किल त्वमपि, मामकलक्षणानि ।
उत्सृज्य तानि, शरणं व्रज मां, इति त्वां
दूतो जगाद, सकलैर्हसित: सभायाम् ॥ २ ॥

दूतेऽथ यातवति, यादवसैनिकैस्त्वं,
यातो ददर्शिथ, वपु: किल पौण्ड्रकीयम् ।
तापेन वक्षसि कृताङ्कं, अनल्प,
मूल्यश्रीकौस्तुभं, मकरकुण्डलपीतचेलम् ॥ ३ ॥

कालायसं, निजसुदर्शनं, अस्यतोऽस्य,
कालानलोत्करकिरेण, सुदर्शनेन ।
शीर्षं चकर्तिथ, ममर्दिथ चास्य सेनां,
तन्मित्रकाशिपशिरोऽपि, चकर्थ काश्याम् ॥ ४ ॥

जाड्येन, बालकगिराऽपि किल,
अहमेव श्रीवासुदेव:, इति रूढमतिश्चिरं स: ।
सायुज्यमेव, भवदैक्यधिया गतोऽभूत्,
को नाम, कस्य सुकृतं, कथमित्यवेयात् ॥ ५ ॥

काशीश्वरस्य तनयोऽथ, सुदक्षिणाख्य:,
शर्वं प्रपूज्य भवते, विहिताभिचार: ।
कृत्यानलं कमपि, बाणरणातिभीतै:,
भूतै: कथञ्चन वृतै: समं, अभ्यमुञ्चत् ॥ ६ ॥

तालप्रमाणचरणां, अखिलं दहन्तीं,
कृत्यां विलोक्य, चकितै: कथितोऽपि पौरै: ।
द्यूतोत्सवे, किमपि नो चलितो विभो त्वं,
पार्श्वस्थमाशु, विससर्जिथ, कालचक्रम् ॥ ७ ॥

अभ्यापतति, अमितधाम्नि, भवन्महास्त्रे,
हा हेति विद्रुतवती खलु, घोरकृत्या ।
रोषात् सुदक्षिणं, अदक्षिणचेष्टितं तं,
पुप्लोष, चक्रम् अपि काशिपुरीं अधाक्षीत् ॥ ८ ॥

स खलु विविदो, रक्षोघाते, कृतोपकृति: पुरा,
तव तु कलया मृत्युं प्राप्तुं, तदा खलतां गत: ।
नरकसचिवो, देशक्लेशं सृजन्, नगरान्तिके,
झटिति हलिना, युध्यन्, अद्धा, पपात तलाहत: ॥ ९ ॥

साम्बं, कौरव्यपुत्रीहरण,नियमितं, सान्त्वनार्थी कुरूणां,
यात:, तद्वाक्यरोषोत्धृतकरिनगरो, मोचयामास राम: ।
ते घात्या: पाण्डवेयै:, इति यदुपृतनां, नामुचस्त्वं तदानीं,
तं त्वां दुर्बोधलीलं, पवनपुरपते, तापशान्त्यै निषेवे ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये त्र्यशीतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 83rd dashakam.

Series Navigation<< நாராயணீயம் எண்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 82nd Dashakam audio mp3நாராயணீயம் எண்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 84th Dashakam audio mp3 >>

3 replies on “நாராயணீயம் எண்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 83rd Dashakam audio mp3”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.