த்ரிலோசனஸுந்தரீ

ஸ்துதி சதகம் 27வதுஸ்லோகம் பொருளுரை – த்ரிலோசனஸுந்தரீ
अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया
सरसिजभुवो यानं म्लानं गतेन च मञ्जुना ।
त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती
तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥

மந்தஸ்மித சதகம் 78வதுஸ்லோகம் பொருளுரை – இனிமை, குளுமை, தூய்மை
ये माधुर्यविहारमण्टपभुवो ये शैत्यमुद्राकरा
ये वैशद्यदशाविशेषसुभगास्ते मन्दहासाङ्कुराः ।
कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां
वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे ॥

மந்தஸ்மித சதகம் 65வதுஸ்லோகம் பொருளுரை – முக்திக்கு வித்தாகும் முகிழ்நகை
मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी
भूयो दूरत एव धूतमरुतस्तत्पालनं तन्वती ।
उद्भूतस्य जलान्तरादविरतं तद्दूरतां जग्मुषी
कामाक्षि स्मितमञ्जरी तव कथं कम्बोस्तुलामश्नुते ॥
Paul Brunton speech with Tamizh translation that is referred in the Shivanandalahari talk above.

பாதாரவிந்த சதகம் 79வது ஸ்லோகம் பொருளுரை – சரணம் என்னும் இருளகற்றும் தீபம்
विनम्राणां चेतोभवनवलभीसीम्नि चरण-
प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि ।
असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी
विघूर्णन्ती शान्तिं शलभपरिपाटीव भजते ॥

பாதாரவிந்த சதகம் 83வது ஸ்லோகம் பொருளுரை – திருவடித் தாமரை என்னும் பிரம்மதேவர்
कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः-
प्रपञ्चव्यापारप्रकटनकलाकौशलनिधिः ।
अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मुनिजनैः
नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥

சிவானந்தலஹரி ஸ்லோகம் 39 தமிழில் பொருள் (10 min audio in Tamizh giving meaning of Shivananda lahari slokams 39)
धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः ।
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९॥



