Categories
Narayaneeyam

நாராயணீயம் பதினைந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 15th Dashakam audio mp3


நாராயணீயம் பதினைந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 15th Dashakam audio mp3

Have given the 15th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चदशं दशकम्

मतिरिह गुणसक्ता, बन्धकृत्, तेषु, असक्ता तु,

अमृतकृत्, उपरुन्धे, भक्तियोगस्तु, सक्तिम् ।

महदनुगमलभ्या, भक्तिरेव, अत्र साध्या,

कपिलतनुरिति त्वं, देवहूत्यै, न्यगादी: ॥ १ ॥

 

प्रकृतिमहदहङ्काराश्च, मात्राश्च भूतानि,

अपि हृदपि, दशाक्षी, पूरुष:, पञ्चविंश: ।

इति, विदितविभागो, मुच्यतेऽसौ, प्रकृत्या,

कपिलतनुरिति त्वं, देवहूत्यै, न्यगादी: ॥ २ ॥

 

प्रकृतिगतगुणौघै:, नाज्यते पूरुषोऽयं,

यदि तु सजति तस्यां, तत् गुणा:, तं भजेरन् ।

मदनुभजनतत्वालोचनै:, साऽपि, अपेयात्,

कपिलतनुरिति त्वं, देवहूत्यै, न्यगादी: ॥ ३ ॥

 

विमलमतिरुपात्तै:, आसनाद्यैर्मदङ्गं,

गरुड,समधिरूढं, दिव्य,भूषायुधाङ्कम् ।

रुचितुलिततमालं, शीलयेतानुवेलं,

कपिलतनुरिति त्वं, देवहूत्यै, न्यगादी: ॥४॥

 

मम, गुणगणलीलाकर्णनै:, कीर्तनाद्यै:

मयि, सुरसरिदोघप्रख्य,चित्तानुवृत्ति: ।

भवति, परमभक्ति:, सा हि मृत्योर्विजेत्री,

कपिलतनुरिति त्वं, देवहूत्यै, न्यगादी: ॥ ५ ॥

 

अहह, बहुलहिंसा,सञ्चितार्थै: कुटुम्बं,

प्रतिदिनं,अनुपुष्णन्, स्त्रीजितो, बाललाली ।

विशति हि, गृहसक्तो यातनां, मय्यभक्त:,

कपिलतनुरितित्वं, देवहूत्यै, न्यगादी: ॥ ६ ॥

 

युवतिजठरखिन्नो, जातबोधोऽपि अकाण्डे,

प्रसवगलितबोध:, पीडया, उल्लङ्घ्य बाल्यम् ।

पुनरपि बत, मुह्यत्येव, तारुण्यकाले,

कपिलतनुरिति त्वं, देवहूत्यै, न्यगादी: ॥ ७ ॥

 

पितृसुरगणयाजी, धार्मिको यो गृहस्थ:,

स च निपतति काले, दक्षिणाध्वोप,गामी ।

मयि निहितं, अकामं कर्म तु, उदक्पथार्थं,

कपिलतनुरिति त्वं, देवहूत्यै, न्यगादी: ॥ ८ ॥

 

इति, सुविदितवेद्यां, देव हे, देवहूतिं,

कृतनुतिमनुगृह्य, त्वं गतो, योगिसङ्घै: ।

विमलमतिरथाऽसौ, भक्तियोगेन मुक्ता,

त्वमपि, जनहितार्थं, वर्तसे, प्रागुदीच्याम् ॥ ९ ॥

 

परम, किमु बहूक्त्या, त्वत्पदाम्भोजभक्तिं,

सकलभयविनेत्रीं, सर्वकामोपनेत्रीम् ।

वदसि खलु, दृढं त्वं, तद्विधूयामयान् मे,

गुरुपवनपुरेश, त्वयि, उपाधत्स्व भक्तिम् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये पञ्चदशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 15th dashakam.

Series Navigation<< நாராயணீயம் பதினான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 14th Dashakam audio mp3நாராயணீயம் பதினாறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 16th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.