Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் பதினொன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 11th sargam audio mp3

ஸுந்தரகாண்டம் பதினொன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 11th sargam audio mp3

Sundarakandam 11th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் பதினொன்றாவது ஸர்கம்

सुन्दरकाण्डे एकादशस्सर्ग:

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा।

जगाम चापरां चिन्तां सीतां प्रति महाकपिः।।5.11.1।।

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी।

न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम्।।5.11.2।।

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्।

न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि।।5.11.3।।

अन्येयमिति निश्चित्य पानभूमौ चचार सः।

क्रीडितेनापराः क्लान्ता: गीतेन च तथाऽपराः।।5.11.4।।

नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा।

मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः।।5.11.5।।

तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः।

अङ्गनानां सहस्रेण भूषितेन विभूषणैः।।5.11.6।।

रूपसल्लापशीलेन युक्तगीतार्थभाषिणा।

देशकालाभियुक्तेन युक्तवाक्याभिधायिना।।5.11.7।।

रताभिरतसंसुप्तं ददर्श हरियूथपः।

तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः।।5.11.8।।

गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः।

स राक्षसेन्द्रः शुशुभे ताभिः परिवृतस्स्वयम्।।5.11.9।।

करेणुभिर्यथाऽरण्ये परिकीर्णो महाद्विपः।

सर्वकामैरुपेतां च पानभूमिं महात्मनः।।5.11.10।।

ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे।

मृगाणां महिषाणां च वराहाणां च भागशः।।5.11.11।।

तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः।

रौक्मेषु च विशालेषु भाजनेष्वर्धभक्षितान्।।5.11.12।।

ददर्श कपिशार्दूलो मयूरान् कुक्कुटांस्तथा।

वराहवार्ध्राणसकान् दध्रिसौवर्चलायुतान्।।5.11.13।।

शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत।

क्रकरान्विविधान् सिद्धांश्चकोरानर्धभक्षितान्।।5.11.14।।

महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान्।

लेह्यानुच्चावचान्पेयान् भोज्यानि विविधानि च।।5.11.15।।

तथाऽऽम्ललवणोत्तंसैर्विविधैरागषाडबैः।

हारनूपुरकेयूरैरपविद्धैर्महाधनैः।।5.11.16।।

पानभाजनविक्षिप्तैः फलैश्च विविधैरपि।

कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्।।5.11.17।।

तत्र तत्र च विन्यस्तै: सुश्लिष्टैश्शयनासनैः।

पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते।।5.11.18।।

बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः।

मांसैः कुशलसम्युक्तैः पानभूमिगतैः पृथक्।।5.11.19।।

दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि।

शर्कराऽसवमाध्वीकपुष्पासवफलासवाः।।5.11.20।।

वासचूर्णैश्च विविधैर्दृष्टास्तैस्तैः पृथक् पृथक्।

सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः।।5.11.21।।

हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकैरपि।

जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता।।5.11.22।।

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च।

पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श स:।।5.11.23।।

सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च।

राजतानि च पूर्णानि भाजनानि महाकपिः।।5.11.24।।

क्वचिदल्पावशेषाणि क्वचित्पीतानि सर्वशः।

क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह।।5.11.25।।

क्वचिद् भक्ष्यांश्च विविधान् क्वचित्पानानि भागशः।

क्वचिदन्नावशेषाणि पश्यन्वै विचचार ह।।5.11.26।।

क्वचित्प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः।

क्वचित्संपृक्तमाल्यानि मूलानि च फलानि च।।5.11.27।।

शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः।

परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः।।5.11.28।।

काश्चिच्च वस्त्रमन्यस्यास्स्वपन्त्याः परिधाय च।

आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः।।5.11.29।।

तासामुच्छासवातेन वस्त्रं माल्यं च गात्रजम्।

नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्।।5.11.30।।

चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च।

विविधस्य च माल्यस्य धूपस्य विविधस्य च।।5.11.31।।

बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन्।

रसानां चन्दनानां च धूपानां चैव मूर्छितः।।5.11.32।।

प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा।

श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाः।।5.11.33।।

काश्चित् काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये।

तासां निद्रावशत्वाच्च मदनेन विमूर्छितम्।।5.11.34।।

पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि।

एवं सर्वमशेषेण रावणान्तः पुरं कपिः।।5.11.35।।

ददर्श सुमहातेजाः न ददर्श च जानकीम्।

निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः।।5.11.36।।

जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः।

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्।।5.11.37।।

इदं खलु ममात्यर्थं धर्मलोपं करिष्यति।

न हि मे परदाराणां दृष्टिर्विषयवर्तिनी।।5.11.38।।

अयं चात्र मया दृष्टः परदारपरिग्रहः।

तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः।।5.11.39।।

निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी।

कामं दृष्टा मया सर्वा: विश्वस्ता रावणस्त्रियः।।5.11.40।।

न हि मे मनसः किञ्चिद्वैकृत्यमुपपद्यते।

मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने।।5.11.41।।

शुभाशु अशुभासु अवस्थासु तच्च मे सुव्यवस्थितम्।

नान्यत्र च मया शक्या वैदेही परिमार्गितुम्।।5.11.42।।

स्त्रियो हि स्त्रीषु दृश्यन्ते सर्वथा परिमार्गणे।

यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमृगयते।।5.11.43।।

न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम्।

तदिदं मार्गितं तावत् शुद्धेन मनसा मया।।5.11.44।।

रावणान्तःपुरं सर्वं दृश्यते न तु जानकी।

देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्।।5.11.45।।

अवेक्षमाणो हनुमान्नैवापश्यत जानकीम्।

तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः।।5.11.46।।

अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे।

स भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः।।5.11.47।।

आपानभूमिमुत्सृज्य तद्विचेतुं प्रचक्रमे।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे एकादशस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் பத்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 10th sargam audio mp3ஸுந்தரகாண்டம் பன்னிரெண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 12th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.