Categories
Narayaneeyam

நாராயணீயம் இருபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 29th Dashakam audio mp3


நாராயணீயம் இருபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 29th Dashakam audio mp3

Have given the 29th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकोनत्रिंशं दशकम्

उद्गच्छतस्तव करात्, अमृतं हरत्सुदैत्येषु, तानशरणान्, अनुनीय देवान् ।

सद्यस्तिरोदधिथ देव, भवत्प्रभावात्, उद्यत्स्वयूथ्यकलहा:, दितिजा बभूवु: ॥ १ ॥

 

श्यामां रुचाऽपि वयसाऽपि तनुं, तदानीं, प्राप्तोऽसि, तुङ्गकुचमण्डलभंगुरां, त्वम् ।

पीयूषकुम्भकलहं, परिमुच्य सर्वे, तृष्णाकुला: प्रतिययु:, त्वदुरोजकुम्भे ॥ २ ॥

 

का त्वं मृगाक्षि, विभजस्व, सुधां इमां इति, आरूढरागविवशान्, अभियाचतोऽमून् ।

विश्वस्यते मयि कथं, कुलटाऽस्मि दैत्या:, इत्यालपन्नपि, सुविश्वसितान्, अतानी: ॥ ३ ॥

 

मोदात्, सुधाकलशं, एषु ददत्सु सा त्वं, दुश्चेष्टितं मम सहध्वं, इति ब्रुवाणा ।

पङ्क्तिप्रभेद,विनिवेशित,देवदैत्या, लीलाविलासगतिभि:, समदा: सुधां ताम् ॥ ४ ॥

 

अस्मासु, इयं प्रणयिणीति, असुरेषु तेषु जोषं स्थितेषु, अथ, समाप्य सुधां सुरेषु ।

त्वं भक्तलोकवशग:, निजरूपमेत्य, स्वर्भानुं, अर्धपरिपीतसुधं, व्यलावी: ॥ ५ ॥

 

त्वत्त:, सुधाहरणयोग्यफलं, परेषु दत्वा, गते त्वयि, सुरै: खलु ते, व्यगृह्णन् ।

घोरेऽथ मूर्छति रणे, बलिदैत्यमाया-व्यामोहिते सुरगणे, त्वं, इहाविरासी: ॥ ६ ॥

 

त्वं कालनेमिमथ, मालिमुखान्, जघन्थ, शक्रो जघान, बलिजम्भवलान्, सपाकान् ।

शुष्कार्द्रदुष्करवधे, नमुचौ च लूने, फेनेन नारदगिरा, न्यरुणो रणं त्वम् ॥ ७ ॥

 

योषावपु:, दनुजमोहनं, आहितं ते, श्रुत्वा, विलोकनकुतूहलवान्, महेश: ।

भूतैस्समं, गिरिजया च, गत: पदं ते, स्तुत्वा, अब्रवीदभिमतं, त्वमथो तिरोधा: ॥ ८ ॥

 

आरामसीमनि च, कन्दुकघातलीला,-लोलायमाननयनां, कमनीं मनोज्ञाम् ।

त्वामेष वीक्ष्य, विगलद्वसनां, मनोभूवेगात्, अनङ्गरिपुरङ्ग, समालिलिङ्ग ॥ ९ ॥

 

भूयोऽपि, विद्रुतवतीं, उपधाव्य देव:, वीर्यप्रमोक्षविकसत्, परमार्थबोध: ।

त्वन्मानितस्तव महत्त्वं, उवाच देव्यै, तत्तादृशस्त्वं, अव, वातनिकेतनाथ ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये एकोनत्रिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 29th dashakam.

Series Navigation<< நாராயணீயம் இருபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 28th Dashakam audio mp3நாராயணீயம் முப்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 30th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.