Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் பதினாறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 16th sargam audio mp3

ஸுந்தரகாண்டம் பதினாறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 16th sargam audio mp3

Sundarakandam 16th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் பதினாறாவது ஸர்கம்

सुन्दरकाण्डे षोडशस्सर्ग:

प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः।

गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्।।5.16.1।।

स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः।

सीतामाश्रित्य तेजस्वी हनुमान् विललाप ह।।5.16.2।।

मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया।

यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः।।5.16.3।।

रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः।

नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे।।5.16.4।।

तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्।

राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा।।5.16.5।।

तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्।

जगाम मनसा रामं वचनं चेदमब्रवीत्।।5.16.6।।

अस्या हेतोर्विशालाक्ष्याः हतो वाली महाबलः।

रावणप्रतिमो वीर्ये कबन्धश्च निपातितः।।5.16.7।।

विराधश्च हतः संख्ये राक्षसो भीमविक्रमः।

वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः।।5.16.8।।

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्।

निहतानि जनस्थाने शरैरग्निशिखोपमैः।।5.16.9।।

खरश्च निहतः संख्ये त्रिशिराश्च निपातितः।

दूषणश्च महातेजाः रामेण विदितात्मना।।5.16.10।।

ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्।

अस्या निमित्ते सुग्रीवः प्राप्तवांल्लोकसत्कृतम्।।5.16.11।।

सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः।

अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता।।5.16.12।।

यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्।

अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः।।5.16.13।।

राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा।

त्रैलोक्यराज्यं सकलं सीतायाः नाप्नुयात् कलाम्।।5.16.14।।

इयं सा धर्मशीलस्य मैथिलस्य महात्मनः।

सुता जनकराजस्य सीता भर्तृदृढव्रता।।5.16.15।।

उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते।

पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः।।5.16.16।।

विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः।

स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी।।5.16.17।।

धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः।

इयं सा दयिता भार्या राक्षसीवशमागता।।5.16.18।।

सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात्कृता।

अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम्।।5.16.19।।

संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता।

या परां भजते प्रीतिं वनेऽपि भवने यथा।।5.16.20।।

सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी।

सहते यातनामेतामनर्थानामभागिनी।।5.16.21।।

इमां तु शीलसंपन्नां द्रष्टुमर्हति राघवः।

रावणेन प्रमथितां प्रपामिव पिपासितः।।5.16.22।।

अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति।

राजा राज्यात् परिभ्रष्टः पुनः प्राप्येव मेदिनीम्।।5.16.23।।

कामभोगैः परित्यक्ता हीना बन्धुजनेन च।

धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी।।5.16.24।।

नैषा पश्यति राक्षस्यः नेमान् पुष्पफलद्रुमान्।

एकस्थहृदया नूनं राममेवानुपश्यति।।5.16.25।।

भर्ता नाम परं नार्याः भूषणं भूषणादपि।

एषा विरहिता तेन भूषणार्हा न शोभते।।5.16.26।।

दुष्करं कुरुते रामः हीनो यदनया प्रभुः।

धारयत्यात्मनो देहं न दुःखेनावसीदति।।5.16.27।।

इमामसितकेशान्तां शतपत्रनिभेक्षणाम्।

सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः।।5.16.28।।

क्षितिक्षमा पुष्करसंनिभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम्।

सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते संप्रति वृक्षमूले।।5.16.29।।

हिमहतनलिनीव नष्टशोभा व्यसनपरम्परयानिपीड्यमाना।

सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना।।5.16.30।।

अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः।

हिमव्यपायेन च मन्दरश्मिः अभ्युत्थितो नैकसहस्ररश्मि:।।5.16.31।।

इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः:।

संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी।।5.16.32।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे षोडशस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் பதினைந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 15th sargam audio mp3ஸுந்தரகாண்டம் பதினேழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 17th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.