ஸுந்தரகாண்டம் நாற்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 40th sargam audio mp3
Sundarakandam 40th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் நாற்பதாவது ஸர்கம்
सुन्दरकाण्डे चत्वारिंशस्सर्गः
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः।
उवाचात्महितं वाक्यं सीता सुरसुतोपमा।।5.40.1।।
त्वां दृष्ट्वा प्रियवक्त्तारं संप्रहृष्यामि वानर।
अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा।।5.40.2।।
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः।
संस्पृशेयं सकामाहं तथा कुरु दयां मयि।।5.40.3।।
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम।
क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम्।।5.40.4।।
मनःशिलायास्तिलकः गण्डपार्श्वे निवेशितः।
त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि।।5.40.5।।
स वीर्यवान् कथं सीतां हृतां समनुमन्यसे।
वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः।।5.40.6।।
एष चूडामणिः दिव्यः मया सुपरिरक्षितः।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ।।5.40.7।।
एष निर्यातितः श्रीमान् मया ते वारिसंभवः।
अतः परं न शक्ष्यामि जीवितुं शोकलालसा।।5.40.8।।
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः।
राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम्।।5.40.9।।
धारयिष्यामि मासं तु जीवितं शत्रुसूदन।
मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज।।5.40.10।।
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि।
त्वां च श्रुत्वा विषज्जन्तं न जीवेयमहं क्षणम्।।5.40.11।।
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम्।
अथाब्रवीन्महातेजाः हनुमान् मारुतात्मजः।।5.40.12।।
त्वच्छोकविमुखो रामः देवि सत्येन ते शपे।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते।।5.40.13।।
कथंचिद्भवती दृष्टा न कालः परिशोचितुम्।
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि।।5.40.14।।
तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिंदमौ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः।।5.40.15।।
हत्वा तु समरे क्रूरं रावणं सहबान्धवम्।
राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः।।5.40.16।।
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते।
प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि।।5.40.17।।
साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम्।
एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्।।5.40.18।।
श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति।
स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः।।5.40.19।।
प्रणम्य शिरसा देवीं गमनायोपचक्रमे।
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुंगवम्।।5.40.20।।
वर्धमानं महावेगमुवाच जनकात्मजा।
अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा।।5.40.21।।
हनुमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ।
सुग्रीवं च सहामात्यं सर्वान् ब्रूया ह्यनामयम्।।5.40.22।।
यथा च स महाबाहुः मां तारयति राघवः।
अस्माद्दु:खाम्बुसंरोधात्त्वं समाधातुमर्हसि।।5.40.23।।
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च।
ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर।।5.40.24।।
स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः।
अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम।।5.40.25।।
ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे चत्वारिंशस्सर्गः।।