Categories
Stothra Parayanam Audio

srirama pattabhishekam slokams text and audio mp3; ஸ்ரீ ராம பட்டாபிஷேகம் ஸ்லோகங்கள் ஒலிப்பதிவு mp3


ஸ்ரீராமர் தர்மத்தின் வடிவம். அவருடைய பட்டாபிஷேக வைபவம் என்பது
அதர்மத்தை தர்மம் வென்றதை கொண்டாடும் மஹோத்வஸம்.
முதலில் தசரதர் ராமரை யுவராஜாவாக பட்டாபிஷேகம் செய்து பார்க்க ஆசைப்பட்டார். அது தடைப்பட்டாலும், முடிவில் ஸ்ரீராமர், ஸீதாதேவியும், ஹனுமாரும், சகோதரர்களும், வானர ராஜனான சுக்ரீவனும், ராக்ஷஸ ராஜனான விபீஷணனும் புடை சூழ பதினான்கு உலகங்களுக்கும் சக்ரவர்த்தியாக பட்டாபிஷேகம் செய்து கொண்டார்.
நம் போன்ற ராம பக்தர்களுக்கு என்றென்றும் ராஜா ராமபிரான் ஒருவரே அன்றோ!

ஸ்ரீ ராம பட்டாபிஷேகம் ஒலிப்பதிவு Srirama pattabhishekam slokams audio

शिरस्यंजलिमाधाय कैकेय्यानन्दवर्धनः। बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्॥1||

पूजिता मामिका माता दत्तं राज्यमिदं मम। तद्ददामि पुनस्तुभ्यं यथा त्वं अददा मम॥2||

धुरमेकाकिना न्यस्तामृषभेण बलीयसा। किशोरीव गुरुं भारं न वोढुं अहमुत्सहे॥3||

वारिवेगेन महता भिन्न: सेतुरिव क्षरन्। दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्॥4||

गतिं खर इवाश्वस्य हंसस्येव च वायसः। नान्वेतुमुत्सहे राम तवमार्गमरिंदम॥5||

यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने। महांश्च सुदुराहारो महास्कन्धप्रशाखवान्॥6||

शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्। तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते॥7||

एषोपमा महाबाहो त्वमर्थं  वेत्तुमर्हसि। यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्नशाधि हि ॥8||

जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः। प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्॥9||

तूर्यसंघातनिर्घोषैः कांचीनूपुरनिस्व्यनैः। मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव॥10||

यावदावर्तते चक्रं यावती च वसुंधरा। तावत् त्वमिह सर्वस्य स्वामित्वमनुवर्तय॥11||

भरतस्य वचः श्रुत्वा रामः परपुरंजयः। तथेति प्रतिजग्राह निषसादासने शुभे॥12||

ततः शत्रुघ्नवचनात् निपुणाः श्मश्रुवर्धकाः। सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत॥13||

पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले। सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे॥14||

विशोधितजटः स्नातः चित्रमाल्यानुलेपनः। महार्हवसनो रामः तस्थौ तत्र श्रिया ज्वलन्॥15||

प्रतिकर्म च रामस्य कारयामास वीर्यवान्। लक्ष्मणस्य च लक्ष्मीवान् इक्ष्वाकुकुलवर्धनः॥16||

प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः। आत्मनैव तदा चक्रु: मनस्विन्यो मनोहरम्॥17||

ततो वानरपत्नीनां सर्वसामेव शोभनम्। चकार यत्नात् कौसल्या प्रहृष्टा पुत्रलालसा॥18||

ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः। योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्॥19||

अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथोत्तमम्। आरुरोह महाबाहू रामः सत्यपराक्रमः॥20||

सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती। स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ॥21||

वराभरणसंपन्ना: युयुस्ताः शुभकुण्डला:। सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः॥22||

अयोध्यायां तु सचिवा: राज्ञो दशरथस्य ये। पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्॥23||

अशोको विजयश्चैव सुमन्त्रश्चैव संगताः। मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च॥24||

सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः। कर्तुमर्हसि रामस्य यद्यन्मंगळपूर्वकम्॥25||

इति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम्। नगरान्निर्ययुस्तूर्णं रामदर्शन बुद्धयः॥26||

हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः। प्रययौ रथमास्थाय रामो नगरमुत्तमम्॥27||

जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे। लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत्॥28||

श्वेतं च व्यालव्यजनं जग्राह पुरतः स्थितः । अपरं चंद्रसंकाशं राक्षसेन्द्रो विभीषणः॥29||

ऋषिसंघैस्तदाकाशे देवैश्च समरुद्गणैः। स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः॥30||

ततः शत्रुञ्जयं नाम कुंजरं पर्वतोपमम्। अरुरोह महातेजाः सुग्रीवः प्लवगर्षभः॥31||

नवनागसहस्राणि युयुरास्थाय वानराः। मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः॥32||

शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्स्वनैः। प्रययौ पुरुषव्याघ्रः तां पुरीं हर्म्यमालिनीम्॥33||

ददृशुस्ते समायान्तं राघवं सपुरस्सरम्। विराजमानं वपुषा रथेनातिरथं तदा॥34||

ते वर्धयित्वा काकुत्‍स्थं रामेण प्रतिनन्दिताः। अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम्॥35||

अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः। श्रिया विरुरुचे राम: नक्षत्रैरिव चन्द्रमाः॥36||

सपुरोगामिभिः तुर्यैः ताळस्वस्तिकपाणिभिः । प्रव्याहरद्भिर्मुदितैः मंगळानि ययौ वृतः॥37||

अक्षतं जातरूपं च गाव: कन्यास्तथा द्विजाः। नरा मोदकहस्ताश्च रामस्य पुरतो ययुः॥38||

सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे। वानराणां च तत्कर्म राक्षसानां च तद्बलम्॥39||

विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम्। श्रुत्वा तु विस्मयं जग्मुः अयोध्यापुरवासिनः॥40||

द्युतिमानेतदाख्याय रामो वानरसंवृतः। हृष्टपुष्टजनाकीर्णां अयोध्यां प्रविवेश ह॥41||

ततो ह्यभ्युच्छ्रयन् पौराः पताकास्ते गृहे गृहे। ऐक्ष्वाकाध्युषितं रम्यं आससाद पितुर्गृहम्॥42||

अथाब्रवीत् राजसुतो भरतं धर्मिणां वरम्। अर्थोपहितया वाचा मधुरं रघुनन्दनः॥43||

पितुर्भवनमासाद्य प्रविश्य च महात्मनः। कौसल्यां च सुमित्रांच कैकेयीं अभिवाद्य च ॥44||

यच्चमद्भवनं श्रेष्ठं साशोकवनिकं महत्। मुक्तावैडूर्यसंकीर्णं सुग्रीवाय निवेदय॥45||

तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः। पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम्॥46||

ततस्तैलप्रदीपांश्च पर्यंकास्तरणानि च। गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः॥47||

उवाच च महातेजाः सुग्रीवं राघवानुजः। अभिषेकाय रामस्य दूतानाज्ञापय प्रभो॥48||

सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्। ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान्॥49||

यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्। पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः॥50||

एवमुक्ता महात्मानो वानरा वारणोपमाः। उत्पेतुर्गगनं शीघ्रं गरुडानिलशीघ्रगाः॥51||

जांबवांश्च सुषेणश्च वेगदर्शी च वानरः। ऋषभश्चैव कलशान् जलपूर्णान् अथानयन्॥52||

नदीशतानां पंचानां जलं कुम्भेषु चाहरन्। पूर्वात् समुद्रात् कलशं जलपूर्णमथाssनयत्॥53||

सुषेणः सत्वसंपन्नः सर्वरत्नविभूषितम्। ऋषभो दक्षिणात्तोयं आजहार महार्णवात् ॥54||

रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम्। गवय: पश्चिमात् तोयमाजहार महार्णवात्॥55||

रत्नकुम्भेन महता शीतं मारुतविक्रमः। उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः॥56||

आजहार स धर्मात्मा नळः सर्वगुणान्वितः। ततस्तैः वानरश्रेष्ठैः आनीतं प्रेक्ष्य तज्जलम्॥57||

अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह। पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत्॥58||

|| श्रीरामपट्टाभिषेकघट्टः ॥

ततस्स प्रयतो वृद्धो वशिष्ठो ब्राह्मणैस्सह रामं रत्नमये पीठे सहसीतं न्यवेशयत् 59||

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः कात्यायन: सुयज्ञश्च गौतमो विजयस्तथा 60||

अभ्यषिञ्चन् नरव्याघ्रं प्रसन्नेन सुगन्धिना सलिलेन सहस्राक्षं वसवो वासवं यथा 61||

ऋत्विग्भि: ब्राह्मणैः पूर्वं कन्याभिः मन्त्रिभिस्तथा योधैश्चैवाभ्यषिञ्चम्स्ते संप्रहृष्टाः सनैगमैः 62||

सर्वौषधिरसैर्दिव्यैः दैवतैर्नभसि स्थितैः चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः 63||

ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम्। अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम्॥64||

तस्यान्ववाये राजानः क्रमात् येनाभिषेचिताः। सभायां हेमक्ऌप्तायां शोभितायां महाजनैः॥65||

रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः। नानारत्नमये पीठे कल्पयित्वा यथाविधि॥66||

किरीटेन ततः पश्चात् वसिष्ठेन महात्मना। ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः॥67||

ऋत्विग्भि: ऋषिभिस्चैव सह तेनाभिषेचित:

छत्रं तु तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम्। श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ॥68||

अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः । मालां ज्वलंतीं वपुषा काञ्चनीं शतपुष्कराम् ॥69||

राघवाय ददौ वायुः वासवेन प्रचोदितः । सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् ॥70||

मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः । प्रजगुर्देवगंधर्वाः ननृतुश्चाप्सरोगणाः ॥71||

अभिषेके तदर्हस्य तदा रामस्य धीमतः। भूमिः सस्यवती चैव फलवन्तश्च पादपाः ॥ 72 ||

गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे । सहस्रशतमश्वानां धेनूनां च गवां तथा ॥73||

ददौ शतं वृषान् पूर्वं द्विजेभ्यो मनुजर्षभः । त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ॥74||

नानाभरणवस्त्राणि महार्हाणि च राघवः । अर्करस्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ॥ 75||

सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः । वैडूर्यमणिचित्रे च वज्ररत्न विभूषिते ॥76||

वालिपुत्राय धृतिमान् अङ्गदायाङ्गदे ददौ । मणिप्रवरजुष्टंच मुक्ताहारमनुत्तमम् ॥77||

सीतायै प्रददौ रामः चन्द्ररश्मिसमप्रभम् । अरजे वाससी दिव्ये शुभान्याभरणानि च ॥78||

अवेक्षमाणा वैदेही प्रददौ वायुसूनवे । अवमुच्यात्मनः कण्ठात् हारं जनकनंदिनी ॥79||

अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः। तामिङ्गितज्ञ: संप्रेक्ष्य बभाषे जनकात्मजाम् ॥80||

प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि । पौरुषं विक्रमो बुद्धिः यस्मिन्नेतानि नित्यदा ॥81||

ददौ सा वायुपुत्राय तं हारमसितेक्षणा । हनुमांस्तेन हारेण शुशुभे वानरर्षभः ॥ 82 ||

चन्द्राम्शुचयगौरेण श्वेताभ्रेण यथाचलः । ततो द्विविदमैन्दाभ्यां नीलाय च परंतपः ॥83||

सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिप: । सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ॥ 84||

वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः । विभीषणोथ सुग्रीवो हनुमान् जाम्बवांस्तथा ॥85||

सर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा । यथार्हं पूजिताः सर्वे कामै: रत्नैश्च पुष्कलैः ॥86||

प्रहृष्टमनसस्सर्वे जग्मुरेव यथागतम् । नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः ॥87||

विसृष्टाः पार्थिवेन्द्रेण किष्किंधामभ्युपागमन् । सुग्रीवो वानरश्रेष्ठ: दृष्ट्वा रामाभिषेचनम् ॥88||

लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः । स राज्यमखिलं शासत् निहतारिर्महायशाः ॥89||

राघवः परमोदारः रराजपरयामुदा । उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥90||

आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन ।
तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुध्वहस्व ॥91||

सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् ।
नियुज्यमानोपि च यौवराज्ये ततोभ्यषिञ्चद्भरतं महात्मा ॥ 92 ||

पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् । अन्यैश्च विविधैर्यज्ञैः अयजत् पार्थिवात्मज: ॥93||

राज्यं दश सहस्राणि प्राप्य वर्षाणि राघवः । शताश्वमेधानाजह्ने सदश्वान् भूरिदक्षिणान् ॥94||

आजानुलम्बबाहु: स: महास्कन्ध: प्रतापवान् । लक्ष्मणानुचरो रामः पृथ्वीमन्वपालयत् ॥ 95||

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् । ईजै बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबांधवः ॥96||

न पर्यदेवन् विधवा: न च व्याळकृतं भयम् । न व्याधिजं भयं वापि रामे राज्यं प्रशासति ॥97||

निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् । न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥98||

सर्वं मुदितमेवासीत् सर्वो धर्मपरोsभवत् । राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् ॥99||

आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः । निरामया विशोकाश्च रामे राज्यं प्रशासति ॥100||

रामो रामो राम इति प्रजानां अभवन् कथाः । रामभूतं जगदभूत् रामे राज्यं प्रशासति ॥101||

नित्यपुष्पा नित्यफलाः तरवः स्कंधविस्तृताः । काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ 102||

ब्राह्मणाः क्षत्रियाः वैश्याः शूद्रा लोभविवर्जिताः । स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥103||

आसन् प्रजा धर्मरता: रामे शासति नानृताः । सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः ॥104||

दश वर्षसहस्राणि दश वर्षशतानि च । भातृभिस्सहितः श्रीमान् रामो राज्यमकारयत् ॥105||

धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् । आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ॥106||

यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते । पुत्रकामास्तु पुत्रान् वै धनकामो धनानि च ॥107||

लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ।महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति ॥108||

राघवेण यथा माता सुमित्रा लक्ष्मणेन च । भरतेनैव कैकेयी जीवपुत्रस्तथा स्त्रियः ॥109||

श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति । रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥110||

शृणोति य इदं काव्यं आर्षं वाल्मीकिना कृतम् । श्रद्धदानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥111||

समागमं प्रवासान्ते लभते चापि बांधवैः । प्रार्थितांश्च वरान् सर्वान् प्राप्नुयादिह राघवात् ॥ 112 ||

श्रवणेन सुरास्सर्वे प्रीयन्ते संप्रशृण्वताम् । विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥113||

विजयेत महीं राजा प्रवासी स्वस्तिमान् व्रजेत् । स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥114||

पूजयंश्च पठंश्चेममितिहासं पुरातनम् । सर्वपापै: प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥115||

प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर् द्विजात् । ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥116||

रामायणमिदं कृत्स्नं श्रुण्वतः पठत: सदा । प्रीयते सततं रामः स हि विष्णुः सनातनः ॥117||

आदिदेवो महाबाहुः हरिर्नारायणः प्रभुः ॥118||

कुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च।
श्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥119||

आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं शुभं च ।
श्रोतव्यमेतन्नियमेन सद्भिः आख्यानमोजस्करमृद्धिकामैः ॥120||

एवमेतत् पुरावृत्तं आख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥121||

देवाश्च सर्वे तुष्यन्ति ग्रहणात् श्रवणात् तथा । रामायणस्य श्रवणात् तुष्यन्ति पितरस्तथा ॥ 122||

भक्त्या रामस्य ये चेमां संहितां ऋषिणा कृताम् । लेखयन्तीह च नराः तेषां वासः त्रिविष्टपे ॥ 123 ||

ॐ तत्सदिति श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
श्रीयुद्धकाण्डे श्रीरामपट्टाभिषेकमहोत्सवो नाम एकत्रिंशदुत्तरशततम: सर्ग:॥

Series Navigation<< ஸுந்தரகாண்டம் அறுபத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 68th sargam audio mp3

2 replies on “srirama pattabhishekam slokams text and audio mp3; ஸ்ரீ ராம பட்டாபிஷேகம் ஸ்லோகங்கள் ஒலிப்பதிவு mp3”

அடியேனுக்கு வால்மீகிராமாயண சுந்தரகாண்டம் மூலமும் அர்த்தமும் தமிழில் கிடைக்குமா

ராமகிருஷ்ணா மடத்தில் அண்ணா உரையுடன் போட்ட வால்மீகி ராமாயணம் சுந்தரகாண்டம் புத்தகம், மூலமும் அர்த்தமும் சிறப்பாக அமைந்துள்ளது. அதை வாங்கிக் கொள்ளலாம்.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.