
மந்தஸ்மித சதகம் 82வது ஸ்லோகம் பொருளுரை – சிவ சங்கர ஸர்வாத்மன் ஸ்ரீமாதர் ஜகதம்பிகே
शिव शंकर सर्वात्मान् श्रीमातर्जगदंबिके
श्रीकाञ्चीपुरदेवते मृदुवचस्सौरभ्यमुद्रास्पदं
प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् ।
मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे
श्लक्ष्णे कुङ्मलति प्ररूढपुलके चाश्लेषणे फुल्लति ॥







